Skip to content

रसगङ्गाधरः — प्रथममाननम्

सम्बद्धाः विषयाः


मङ्गलाचरणम्

स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम् अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्। कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी॥

छन्दः - पृथ्वी

स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम्
।ऽ । ।।ऽ।ऽ ।।। ऽ ।ऽऽ ।ऽ (ज-स-ज-स-य-ल-ग)

अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्।
। ऽ ।।।ऽ ।ऽ ।।। ऽ । ऽ ऽ।ऽ

कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
। ऽ ।।।ऽ ।ऽ ।।। ऽ । ऽ ऽ।ऽ

मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी॥
।ऽ। ।। ऽ।ऽ ।।। ऽ । ऽऽ।ऽ

पदार्थः

पदम् अर्थः व्याकरणांशः
स्मृताऽपि स्मरणमात्रेण अपि सम्भावनायाम्, सामर्थ्योत्कर्षे
तरुणातपम् प्रखरतापम् तरुणश्चासौ आतपः, तम्
करुणया कृपया हेतौ तृतीया
हरन्ती निवारन्यन्ती हृ+शतृ॒+ङीप्
नृणाम् मर्त्यानाम् नृ (नरः)
अभङ्गुरतनुत्विषां अनश्वरशरीरकान्तीनाम् अभङ्गुरा तनुत्विड् यासां ताः, तासाम्
विद्युताम् तडिताम् विद्युत्
शतैः शतशः शतं तु एकवचने एव भवति । अत्र बहुवचनम् - यथा नाणाकानां शतैः क्रीतम् (=अनेकशतम्) ।
वलयिता परिवेष्टिता वलय + इतच्
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी कलिन्दपर्वतपुत्रीतीरसुरद्रुमसनाथा
कलिन्दः पर्वतविशेषः, ततः यमुना प्रभवति ।
सुरद्रुमः = वृक्षविशेषः ।
कलिन्दः इति गिरिः, कलिन्दगिरेः नन्दिनी,
कलिन्दगिरिनन्दिन्याः तटम्,
सुरः इति द्रुमः, कलिन्दगिरिनन्दिनीतटे सुरदुर्मः,
कलिन्दगिरिनन्दिनीतटसुरद्रुमम् आलम्बते इति शीलं यस्याः सा (णिनि)
मदीयमतिचुम्बिनी नित्या मद्बुद्धिविषया मदीया मतिः, मदीयमतिं (पुंवद्भावः) चुम्बति इति शीलं यस्याः (णिनि)
भवतु भूयात् भू लोट्
काऽपि विलक्षणा
कादम्बिनी मेघमाला कदम्बः = १) पुष्पविशेषः सुगन्धी । २) कदम्बम् = समूहः इति मेदिनी ।
कादम्बः = कदम्बे (समूहे) भवः इति कादम्बः । (कलहंसः)
कादम्बिनी = कादम्बाः कलहंसाः सन्ति अस्याम् इति कादम्बिनी । कादम्ब + इनि + ङीष्

रमणीयार्थप्रतिपादकः शब्दः काव्यम्।

तत्र कीर्तिपरमाह्लादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्य व्युत्पत्तेः कविसहृदययोरावश्यकतया गुणालङ्कारादिभिर्निरूपणीये तस्मिन् विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्निरूप्यते -

रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरता। लोकोत्तरत्वं चाह्लादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः। कारणं च तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसन्धानात्मा। 'पुत्रस्ते जातः', 'धनं ते दास्यामि' इति वाक्यार्थधीजन्यस्याह्लादस्य न लोकोत्तरत्वम्। अतो न तस्मिन् वाक्ये काव्यत्वप्रसक्तिः। इत्थं च चमत्कारजनकभावनाविषयार्थप्रतिपादकशब्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनकतावच्छेदकं तत्त्वम्, स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण चमत्कारत्ववत्त्वमेव वा काव्यत्वमिति फलितम्।