रसगङ्गाधरः — प्रथममाननम्¶
सम्बद्धाः विषयाः¶
मङ्गलाचरणम्¶
स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम् अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्। कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी॥
छन्दः - पृथ्वी
स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम्
।ऽ । ।।ऽ।ऽ ।।। ऽ ।ऽऽ ।ऽ (ज-स-ज-स-य-ल-ग)
अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्।
। ऽ ।।।ऽ ।ऽ ।।। ऽ । ऽ ऽ।ऽ
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
। ऽ ।।।ऽ ।ऽ ।।। ऽ । ऽ ऽ।ऽ
मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी॥
।ऽ। ।। ऽ।ऽ ।।। ऽ । ऽऽ।ऽ
पदार्थः¶
| पदम् | अर्थः | व्याकरणांशः |
|---|---|---|
| स्मृताऽपि | स्मरणमात्रेण | अपि सम्भावनायाम्, सामर्थ्योत्कर्षे |
| तरुणातपम् | प्रखरतापम् | तरुणश्चासौ आतपः, तम् |
| करुणया | कृपया | हेतौ तृतीया |
| हरन्ती | निवारन्यन्ती | हृ+शतृ॒+ङीप् |
| नृणाम् | मर्त्यानाम् | नृ (नरः) |
| अभङ्गुरतनुत्विषां | अनश्वरशरीरकान्तीनाम् | अभङ्गुरा तनुत्विड् यासां ताः, तासाम् |
| विद्युताम् | तडिताम् | विद्युत् |
| शतैः | शतशः | शतं तु एकवचने एव भवति । अत्र बहुवचनम् - यथा नाणाकानां शतैः क्रीतम् (=अनेकशतम्) । |
| वलयिता | परिवेष्टिता | वलय + इतच् |
| कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी | कलिन्दपर्वतपुत्रीतीरसुरद्रुमसनाथा कलिन्दः पर्वतविशेषः, ततः यमुना प्रभवति । सुरद्रुमः = वृक्षविशेषः । |
कलिन्दः इति गिरिः, कलिन्दगिरेः नन्दिनी, कलिन्दगिरिनन्दिन्याः तटम्, सुरः इति द्रुमः, कलिन्दगिरिनन्दिनीतटे सुरदुर्मः, कलिन्दगिरिनन्दिनीतटसुरद्रुमम् आलम्बते इति शीलं यस्याः सा (णिनि) |
| मदीयमतिचुम्बिनी | नित्या मद्बुद्धिविषया | मदीया मतिः, मदीयमतिं (पुंवद्भावः) चुम्बति इति शीलं यस्याः (णिनि) |
| भवतु | भूयात् | भू लोट् |
| काऽपि | विलक्षणा | |
| कादम्बिनी | मेघमाला | कदम्बः = १) पुष्पविशेषः सुगन्धी । २) कदम्बम् = समूहः इति मेदिनी । कादम्बः = कदम्बे (समूहे) भवः इति कादम्बः । (कलहंसः) कादम्बिनी = कादम्बाः कलहंसाः सन्ति अस्याम् इति कादम्बिनी । कादम्ब + इनि + ङीष् |
रमणीयार्थप्रतिपादकः शब्दः काव्यम्।
रमणीयता च लोकोत्तराह्लादजनकज्ञानगोचरता। लोकोत्तरत्वं चाह्लादगतश्चमत्कारत्वापरपर्यायोऽनुभवसाक्षिको जातिविशेषः। कारणं च तदवच्छिन्ने भावनाविशेषः पुनःपुनरनुसन्धानात्मा। 'पुत्रस्ते जातः', 'धनं ते दास्यामि' इति वाक्यार्थधीजन्यस्याह्लादस्य न लोकोत्तरत्वम्। अतो न तस्मिन् वाक्ये काव्यत्वप्रसक्तिः। इत्थं च चमत्कारजनकभावनाविषयार्थप्रतिपादकशब्दत्वम्, यत्प्रतिपादितार्थविषयकभावनात्वं चमत्कारजनकतावच्छेदकं तत्त्वम्, स्वविशिष्टजनकतावच्छेदकार्थप्रतिपादकतासंसर्गेण चमत्कारत्ववत्त्वमेव वा काव्यत्वमिति फलितम्।
तत्र कीर्तिपरमाह्लादगुरुराजदेवताप्रसादाद्यनेकप्रयोजनकस्य काव्यस्य व्युत्पत्तेः कविसहृदययोरावश्यकतया गुणालङ्कारादिभिर्निरूपणीये तस्मिन् विशेष्यतावच्छेदकं तदितरभेदबुद्धौ साधनं च तल्लक्षणं तावन्निरूप्यते -