साहित्यदर्पणः — तृतीयः परिच्छेदः (रसनिरूपणम्)¶
सम्बद्धाः विषयाः¶
अथ कोऽयं रस इत्युच्यते--
विभावेनानुभावेन व्यक्तः संचारिणा तथा । रसतामेति रत्यादिः स्थायीभावः सचेतसां ॥३।१॥
विभावादयो वक्ष्यन्ते । सात्त्विकाश्चानुभावरूपत्वात्न पृथगुक्ताः। व्यक्तो दध्यादिन्यायेन रूपान्तरपरिणतो व्यक्तीकृत एव रसो न तु दीपेन घट इव पूर्वसिद्धो व्यज्यते ।
तदुक्तं लोचनकारैः-- 'रसाः प्रतीयन्त इति त्वोदनं पचतीतिवद्व्यवहारः' इति । अत्र च रत्यादिपदोपादानादेव प्राप्ते सथायित्वे पुनः स्थायिपदोपादानं रत्यादीनामपि रसान्तरष्वस्थायित्वप्रतिपादनार्थं । ततश्च हासक्रोधादयः शृङ्गारवीरादौ व्यभिचारिण एव ।
तदुक्तम्--
रसावस्थः परम्भावः स्थायितां प्रतिपद्यते
इति ।
अस्य स्वरूपकथनगर्भ आस्वादनप्रकारः कथ्यते--
सत्त्वोद्रेकादखण्डस्वप्रकाशानन्दचिन्मयः । वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः ॥३।२॥ लोकोत्तरचमत्कारप्राणः कैश्चित्प्रमातृभिः । स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः ॥३।३॥
'रजस्तमोभ्यामस्पृष्टं मनः सत्वमिहोच्यते' इत्युक्तप्रकारो बाह्यमेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वं । तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । अत्र च हेतुस्तथाविधालौकिकाव्यार्थपरिशीलनं । अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः अत्र हेतुं वक्ष्यामः । स्वप्रकाशत्वाद्यपि वक्ष्यमाणपरीत्या । चिन्मय इति स्वरूपार्थे मयट् । चमत्कारशिचत्तविस्ताररूपो विस्मयापरपर्य्यायः । तत्प्राणत्वञ्चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीमन्नारायणपादैरुक्तं । तदाह धर्मदत्तः स्वग्रन्थे--
रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते ।
तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः ।
तस्मादद्भुतमेवाह कृती नारायणो रसम् ॥ इति ।
कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम् -
'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रससन्ततिम् ।' इति ।
यद्यपि 'स्वादः काव्यार्थसम्भेदादात्मानन्दसमुद्भवः' इत्युक्तदिशा रसस्यास्वादानतिरिक्तत्वमुक्तम्, तथापि 'रसः स्वाद्यते' इति काल्पनिकं भेदमुररी कृत्य कर्मकर्त्तरि वा प्रयोगः । तदुक्तम्-'रस्यमानतामात्रसारत्वात्प्रकाशशरीरादनन्य एव हि रसः' इति । कमन्यत्राप्येवंविधस्थलेषूपचारण प्रयोगो ज्ञेयः ।
नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवतीति व्यञ्जनायाश्च ज्ञानविशेषत्वाद्द्वयोरैक्यमापतितं । ततश्च--
स्वज्ञानेनान्यधीहेतुः सिद्धेर्ऽथे व्यञ्जको मतः ।
यथा दीपोऽन्यथाभावे को विशेषोऽस्य कारकात् ॥
इत्युक्तदिशा घटप्रदीपवद्व्यङ्ग्यव्यञ्जकयोः पार्थक्यमेवेति कथं रसस्य व्यङ्ग्यतेति चेत्, सत्यमुक्तं । अत एवाहुः-- 'विलक्षण एवायं कृतिज्ञप्तिभेदेभ्यः स्वादनाख्यः कश्चिद्व्यापारः । अत एव हि रसनास्वादनचमत्करणादयो विलक्षणा एव व्यपदेशाः' इति । अभिधादिविलक्षणव्यापारमात्रप्रसाधनग्रहिलैरस्माभी रसादीनां व्यङ्ग्यत्वमुक्तं भवतीति । ननु तर्हि करुणादीनां रसानां दुः खयत्वाद्रसत्वं (तदुन्मुखत्वं ) न स्यादत्युच्यते--
करुणादावपि रसे जायते यत्परं सुखं । सचेतसामनुभवः प्रमाणं तत्र केवलं ॥३।४॥
कथं सुखं सर्वेषु रसेषु?¶
आदिशब्दाद्बीभत्सभयानकादयः । तथाप्यसहृदयानां मुखमुद्रणाय पक्षान्तरमुच्यते--
किञ्च तेषु यदा दुःखं न कोऽपि स्यात्तदुन्मुखः ।
नहि कश्चत्सचेता आत्मनो दुःखाय प्रवर्त्तते । करूणादिषु च सकलस्यापि साभिनिवेशप्रवृत्तिदर्शनात्सुखमयत्वमेव । अनुपपत्त्यन्तरमाह--
तथा रामायणादीनां भविता दुःखहेतुता ॥३।५॥
करुणरसस्य दुः खहेतुत्वे करुणरसप्रधानरामायणादिप्रबन्धानामपि दुःखहेतुताप्रसङ्गः स्यात् । ननु कथं दुःखकारणोभ्यः सुखोत्पत्तिरित्याह--
हेतुत्वं शोकहर्षादेर्गतेभ्यो लोकसंश्रयात् । शोकहर्षादयो लोके जायन्तां नाम लौकिकाः ॥३।६॥ अलौकिकविभावत्वं प्राप्तेभ्यः काव्यसंश्रयात् ।
सुखं सञ्जायते तेभ्यः सर्वेभ्योऽपीति का क्षतिः ॥३।७॥
'ये खलु रामवनवासादयो लोके 'दुःखारणानि' इत्युच्यन्ते त एव हि काव्यनाट्यसमर्पिता अलौकिकविभावनव्यापारवत्तया कारणशब्दवाच्यतां विहाय अलौकिकविभावशब्दवाच्यत्वं भजन्ते । तेभ्यश्च सुरते दन्तधातादिभ्य इव सुखमेव जायते । अतश्च 'लौकिकशोकहर्षादिकारणोभ्यो लौकिकशोकहर्षादयो जायन्ते' इति लोक एव प्रतिनियमः । काव्ये पुन) 'सर्वेभ्योऽपि विभावादिभ्यः सुखमेव जायते' इति नियमान्न कश्चिद्दोषः । कथं तर्हि हरिश्चन्द्रादिचरितस्य काव्यनाट्ययोरपि दर्शनश्रवणाभ्यामश्रुपाता दयो जायन्त इत्युच्यते--
अश्रुपातादयस्तद्वद्द्रुतत्वाच्चेतसो मताः ।
तर्हि कथं काव्यतः सर्वेषामीदृशी रसाभिव्यक्तिर्न जायत इत्यत आह--
न जायते तदास्वादो विना रत्यादिवासनां ॥३।८॥
वासना चेदानीन्तनी प्राक्तनी च रसास्वादहेतुः, तत्र यद्याद्या न स्यात्तदा श्रोत्रियजरन्मीमांसकादीनामपि स स्यात् । यदि द्वितीया न स्यात्तदा यद्रगिणा मपि केषाञ्चिद्रसोद्वोधो न दृश्यते तन्न स्यात् । उक्तञ्च धर्म्मदत्तेन--
सवासनानां सभ्यानां रसस्यास्वादनं भवेत् ।
निर्वासनास्तु रङ्गान्तः काष्ठकुड्याश्मसन्निभाः ॥ इति ।
ननु कथं रामादिरत्याद्युद्वोधकारणैः सीतादिभिः सामाजिकरत्याद्युद्वोधैत्युच्यते--
व्यापारोऽस्ति विभावादेर्नाम्ना साधारणीकृतिः । तत्प्रभावेण यस्यासन्पाथोधिप्लवनादयः ॥३।९॥ प्रमाता तदभेदेन स्वात्मानं प्रतिपद्यते ।
ननु कथं मनुष्यमात्रस्य समुद्रलङ्घनादावुत्साहोद्वोध इत्युच्यते--
उत्साहादिसमुद्वोधः साधारण्याभिमानतः ॥३।१०॥ नृणामपि समुद्रादिलङ्घनादौ न दुष्यति ।
रत्यादयोऽपि साधारण्येनैव प्रतीयान्त इत्याह--
साधारण्येन रत्यादिरपि तद्वत्प्रतीयते ॥३।११॥
रत्यादेरपि स्वात्मगतत्वेन प्रतीतौ सभ्यानां ब्रीडातङ्कादिर्भवेत् । परगतत्वेन त्वरस्यतापातः । विभावादयोऽपि प्रथमतः साधारण्येन प्रतीयन्त इत्याह--
परस्य न परस्येति ममेति न ममेति च । तदास्वादे विभावादेः परिच्छेदो न विद्यते ॥३।१२॥