Skip to content

अभिज्ञानशाकुन्तलम् — प्रथमोऽङ्कः

मङ्गलाचरणम्

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १॥

जलरूपा वह्निरूपा यजमानरूपा सूर्यचन्द्ररूपे आकाशरूपा पृथिवीरूपा वायुरूपा

(नान्द्यन्ते)
सूत्रधारः(नेपथ्याभिमुखमवलोक्य)
आर्ये यदि नेपथ्यविधानमवसितमितस्तावदागम्यताम् ।

(प्रविश्य)
नटी – आर्यपुत्र इयमस्मि ।
सूत्रधारः – आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुन्तलाख्येन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।

अभिरूपैः=अभिलक्ष्यं रूपं येषां, तैः (विद्वद्भिः) । भूयिष्ठा=बहुला । अभिरूपभूयिष्ठा=विद्वद्वर्गबहुला । आधीयताम्=विधीयताम्, क्रियताम् ।

नटी – सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते ।

परिहास्यते=त्रुटिं गच्छेत्।

सूत्रधारः(सस्मितम्) आर्ये कथयामि ते भूतार्थम् ।

भूतार्थम्=परमार्थम् ।

आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥२॥

प्रयोगविज्ञानम्=अभिनयकलाकौशलम्, विशिष्टविज्ञानम् । अप्रत्ययम्=अविश्वासम् ।

नटी – आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु ।
सूत्रधारः – किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । सम्प्रति हि -

उपभोगक्षमम् = चन्दनाद्युपभोगाय क्षमम् ।

सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥३॥

सुभगसलिलावगाहाः = मनोहरजलस्नानाः (सुभगे सलिले अवगाहाः येषु, ते । सुभगम्=मनोहरम् । सलिलम्=जलम् । अवगाहः=स्नानम्) । परिणामरमणीयाः = सायंकालशोभनाः ।

श्लोकसूची

श्लोकः छन्दः अलङ्काराः
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री य…
आपरितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् इन्द्रवज्रा रूपकम्
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः