ध्वन्यालोकः — प्रथमः उद्योतः¶
आनन्दवर्धनस्य ध्वनिसिद्धान्तः रससिद्धान्तेन प्रभावितः दृश्यते । यथा रसः न कदापि वाच्यः लक्ष्यः वा न भवति, सर्वथा व्यङ्ग्यः एव भवति । आनन्दवर्धनाचार्यः तं व्यङ्ग्यम् अर्थं काव्ये सर्वातिशयेन प्रतिष्ठापयन् ध्वनिसिद्धान्तं विशदीकृतवान् ।
व्याकरणशास्त्रस्य प्रभावः अपि दृश्यते । वैयाकरणानां स्फोटसिद्धान्तम् आश्रित्य ध्वनिसिद्धान्तः प्रतिपादितः (इति मम्मटः) ।
स्वेछाकेसरिणः स्वच्छस्वच्छायायासितेन्दवः । त्रायन्तां वो मधुरिपोः प्रपन्नार्तिच्छिदो नखाः ॥
• भावः - भक्तिः । • ध्वनिकाव्योदाहरणम् । • रसध्वनिः - वीररसः । • अलङ्कारध्वनिः - व्यतिरेकालङ्कारध्वनिः, उत्प्रेक्षालङ्कारध्वनिः, अपह्नुत्यलङ्कारध्वनिः । • वस्तुध्वनिः - नखानां सातिशयशक्तिता, व्यतिरिक्तकारणापेक्षाविरहः, जगत्त्रासापसारणोद्यमः, परमकारुणिकत्वम्, बालेन्दुत्वम्, चन्द्रस्य विच्छायत्वम्, नखानाम् आयासाकारित्वम्
काव्यस्यात्मा ध्वनिरिति बुधैर्यः समाम्नातपूर्वस्तस्याभावं जगदुरपरे भाक्तमाहुस्तमन्ये । केचिद्वाचां स्थितमविषये तत्त्वमूचुस्तदीयं तेन ब्रूमः सहृदयमनःप्रीतये तत्स्वरूपम् ॥ १।१ ॥
योऽर्थः सहृदयश्लाघ्यः काव्यात्मेति व्यवस्थितः । वाच्यप्रतीयमानाख्यौ तस्य भेदावुभौ स्मृतौ ॥ १।२ ॥
तत्र वाच्यः प्रसिद्धो यः प्रकारैरुपमादिभिः । बहुधा व्याकृतः सोऽन्यैः ततो नेह प्रतन्यते ॥ १।३ ॥
प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥ १।४ ॥
काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा । क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ॥ १।५ ॥
सरस्वती स्वादु तदर्थवस्तु निःष्यन्दमाना महतां कवीनाम् । अलोकसामान्यमभिव्यनक्ति परिस्फुरन्तं प्रतिभाविशेषम् ॥ १।६ ॥
शब्दार्थशासनज्ञानमात्रेणैव न वेद्यते । वेद्यते स तु काव्यार्थतत्त्वज्ञैरेव केवलम् ॥ १।७ ॥
सोऽर्थस्तद्व्यक्तिसामर्थ्ययोगी शब्दश्च कश्चन । यत्नतः प्रत्यभिज्ञेयौ तौ शब्दार्थौ महाकवेः ॥ १।८ ॥
आलोकार्थी यथा दीपशिखायां यत्नवाञ्जनः । तदुपायतया तद्वदर्थे वाच्ये तदादृतः ॥ १।९ ॥
यथा पदार्थद्वारेण वाक्यार्थः सम्प्रतीयते । वाच्यार्थपूर्विका तद्वत्प्रतिपत्तस्य वस्तुनः ॥ १।१० ॥
स्वसामर्थ्यवशेनैव वाक्यार्थं प्रतिपादयन् । यथा व्यापारनिष्पत्तौ पदार्थो न विभाव्यते ॥ १।११ ॥
तद्वत्सचेतसां सोऽर्थो वाच्यार्थविमुखात्मनां । बुद्धौ तत्त्वार्थदर्शिन्यां झटित्येवावभासते ॥ १।१२ ॥
यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥ १।१३ ॥
भक्त्या बिभर्ति नैकत्वं रूपभेदादयं ध्वनिः । अतिव्याप्तेरथाव्याप्तेर्न चासौ लक्ष्यते तया ॥ १।१४ ॥
उक्त्यन्तरेणाशक्यं यत्तच्चारुत्वं प्रकाशयन् । शब्दो व्यञ्जकतां बिभ्रद्ध्वन्युक्तेर्विषयीभवेत्॥ १।१५ ॥
रूढा ये विषयेऽन्यत्र शब्दाः स्वविषयादपि । लावण्याद्याः प्रयुक्तास्ते न भवन्ति पदं ध्वनेः ॥ १।१६ ॥
मुख्यां वृत्तिं परित्यज्य गुणवृत्त्यार्थदर्शनम् । यदुद्दिश्य फलं तत्र शब्दो नैव स्खलद्गतिः ॥ १।१७ ॥
वाचकत्वाश्रयेणैव गुणवृत्तिर्व्यवस्थिता । व्यञ्जकत्वैकमूलस्य ध्वनेः स्याल्लक्षणं कथम् ॥ १।१८ ॥
कस्यचिद्ध्वनिभेदस्य सा तु स्यादुपलक्षणम् । लक्षणेऽन्यैः कृते चास्य पक्षसंसिद्धिरेव नः ॥ १।१९ ॥
इति श्रीराजानकानन्दवर्धनाचार्यविरचिते ध्वन्यालोके प्रथम उद्योतः ।