Skip to content

अलङ्काराः

अलङ्क्रियतेऽनेनेति अलङ्कारः । काव्यस्याभूषणम् । शब्तः अर्थतः वा काव्यस्य सौन्दर्यं वर्धयन्ति अलङ्काराः ।

शब्दालङ्काराः

अलङ्कारः लक्षणम् उदाहरणानि
अनुप्रासः अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत्
व्यञ्जनानाम् आवृत्तिः अनुप्रासः ।
मुदाकरात्तमोदकं सदा विमुक्तिसाधकम् ।
कलाधरावतंसकं विलासिलोकरक्षकम् ॥
छेकानुप्रासः छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा
(सकृद् आवृत्तिः)
चिन्तयामि हरिमेव सन्ततं मन्दमन्दहसिताननाम्बुजम् ।
वृत्त्यनुप्रासः अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा ।
एकस्य सकृदप्येष वृत्त्यनुप्रास उच्यते ॥
(असकृद् आवृत्तिः)
यमकः सत्यर्थे पृथगर्थायाः स्वरव्यंजनसंहतेः ।
क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥
शारदा शारदाम्भोजवदना वदनाम्बुजे ।
सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रिर्यात् ॥

अर्थालङ्काराः

अलङ्कारः लक्षणम् उदाहरणानि
उपमा उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः
अङ्गानि → उपमेयः, उपमानं, साधारणधर्मः, उपमावाचकम्
पूर्णोपमा लुप्तोपमा इति प्रभेदौ ।
गम्यं वाच्यमवैधर्म्यं वाक्यैक्यमुपमा द्वयोः ।
तस्याः मुखं चन्द्र इव सुन्दरमस्ति ।
समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ।
रूपकम् अभेदो भासते यस्मिन्नुपमानोपमेययोः ।
अथवा
तद्रूपकमभेदो य उपमानोपमेययोः ।
अयं राजा साक्षात् परमेश्वरः ।
अहं वचनकुसुमैः अर्चयामि ।
उत्प्रेक्षा सम्भावनं स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना । लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः ।
पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् ।
लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥
अतिश्योक्तिः सिद्धत्वेऽध्यवसायस्यातिश्योक्तिर्निगद्यते । [विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणो अध्यवसायः । विषयः – उपमेयः , विषयी - उपमानम्]
विषयस्यानुपादानाद्विषय्युपनिबध्यते
(उपमेयं विना उपमानरूपेणैव वर्णनम्)
अथवा
सम्बन्धे असम्बन्धलक्षणाऽतिशयोक्तिः ।
अभेदे भेदवर्णनम्, भेदेऽभेदवर्णनम्, असम्बन्धे सम्बन्धवर्णनम्, सम्बन्धेऽसम्बन्धवर्णनम्, कार्यकारणभावविपर्ययवर्णनम् ।
परमेश्वरः समागतः । सिंहः आगच्छति । व्याघ्रं मा कोपय
श्लेषः नानार्थसंश्रयः श्लेषः कादम्बरीरसज्ञानामाहारोऽपि न रोचते ।
माघे मेघे गतं वयः ।
अभङ्गश्लेषः अनेकार्थानां पदानामुपयोगः । उच्चरद्भूरिकीलालः शुशुभे वाहिनीपतिः ।
कीलालः–रक्तं, जलम् । वाहिनी–सेना, नदी ।
वाहिनीपतिः–सेनापतिः, समुद्रः ।
सभङ्गश्लेषः सन्धिविच्छेदेन भिन्नार्थकानां भिन्नपदानां लाभः । सर्वदो माधवः पायात् स यो गङ्गामदीधरत् ।
सर्वदः माधवः .. योऽगङ्गाम् (अगं + अगाम्; पर्वतं + भूमिम्) – कृष्णः रक्षतु ।
सर्वदा उमाधवः ... यः गङ्गाम् अदीधरत् – शिवः रक्षतु
अर्थान्तरन्यासः उक्तिरर्थान्तरन्यासः स्यात् सामान्यविशेषयोः
सामान्यं वा विशेषो वा तदन्येन समर्थ्यते।
यत्र सोऽर्थान्तरन्यासः साधर्म्येणेेतरेण वा
हनुमानब्धिमतरत् दुष्करं किं महात्मनाम् ।
भ्रष्टः स आरक्षकैर्गृहीतः । लवणं पीतवान्जलं पिबेदेव ॥
काव्यलिङ्ग० हेतोर्वाक्‍यपदार्थत्‍वे काव्‍यलिंगं निगद्यते
समासोक्तिः समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् ।
परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः ।
प्रतीपम् प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् ।
विषम० विषमं वर्ण्यते यत्र घटनाननुरूपयोः । ? तपः क्व वत्से क्व च तावकं वपुः
सहोक्ति सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम्
उदात्त लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते
विशेषोक्तिः विशेषोक्तिरखण्डेषु कारणेषु फलावचः ।
कारणेषु सत्स्वपि कार्यसिद्धिर्न भवति । [सति हेतौ फलाभावे विशेषोक्तिर्निगद्यते]
देव्यामपि हि (उ०रा० १।६)
विभावना विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते । देव्यामपि हि (उ०रा० १।६)
व्यतिरेक० आधिक्यमुपमेयस्योपमानान्यूनताऽथवा लौकिकानां हि साधूनामर्थं वागनुवर्तते।
ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥उ०रा० १।१०॥
स्मरणा० सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते तस्यास्तीरे रचित० (मेघ० २।१६)
दृष्टान्त० दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् एभिः साधो! हृदयनिहितैः (मेघ० २।१८)
समः समं स्यादानुरूपुयेण स्लाघ्या या योग्यवस्तुनः