अलङ्काराः¶
अलङ्क्रियतेऽनेनेति अलङ्कारः । काव्यस्याभूषणम् । शब्तः अर्थतः वा काव्यस्य सौन्दर्यं वर्धयन्ति अलङ्काराः ।
शब्दालङ्काराः¶
| अलङ्कारः | लक्षणम् | उदाहरणानि |
|---|---|---|
| अनुप्रासः |
अनुप्रासः शब्दसाम्यं वैषम्येऽपि स्वरस्य यत् व्यञ्जनानाम् आवृत्तिः अनुप्रासः । |
मुदाकरात्तमोदकं सदा विमुक्तिसाधकम् । कलाधरावतंसकं विलासिलोकरक्षकम् ॥ |
| छेकानुप्रासः |
छेको व्यञ्जनसङ्घस्य सकृत्साम्यमनेकधा (सकृद् आवृत्तिः) |
चिन्तयामि हरिमेव सन्ततं मन्दमन्दहसिताननाम्बुजम् । |
| वृत्त्यनुप्रासः |
अनेकस्यैकधा साम्यमसकृद्वाप्यनेकधा । एकस्य सकृदप्येष वृत्त्यनुप्रास उच्यते ॥ (असकृद् आवृत्तिः) |
|
| यमकः |
सत्यर्थे पृथगर्थायाः स्वरव्यंजनसंहतेः । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥ |
शारदा शारदाम्भोजवदना वदनाम्बुजे । सर्वदा सर्वदास्माकं सन्निधिं सन्निधिं क्रिर्यात् ॥ |
अर्थालङ्काराः¶
| अलङ्कारः | लक्षणम् | उदाहरणानि |
|---|---|---|
| उपमा | उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः अङ्गानि → उपमेयः, उपमानं, साधारणधर्मः, उपमावाचकम् पूर्णोपमा लुप्तोपमा इति प्रभेदौ । गम्यं वाच्यमवैधर्म्यं वाक्यैक्यमुपमा द्वयोः । |
तस्याः मुखं चन्द्र इव सुन्दरमस्ति । समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव । |
| रूपकम् | अभेदो भासते यस्मिन्नुपमानोपमेययोः । अथवा तद्रूपकमभेदो य उपमानोपमेययोः । |
अयं राजा साक्षात् परमेश्वरः । अहं वचनकुसुमैः अर्चयामि । |
| उत्प्रेक्षा | सम्भावनं स्यादुत्प्रेक्षा वस्तुहेतुफलात्मना । | लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः । पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम् । लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥ |
| अतिश्योक्तिः | सिद्धत्वेऽध्यवसायस्यातिश्योक्तिर्निगद्यते ।
[विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणो अध्यवसायः । विषयः – उपमेयः , विषयी - उपमानम्] विषयस्यानुपादानाद्विषय्युपनिबध्यते (उपमेयं विना उपमानरूपेणैव वर्णनम्) अथवा सम्बन्धे असम्बन्धलक्षणाऽतिशयोक्तिः । अभेदे भेदवर्णनम्, भेदेऽभेदवर्णनम्, असम्बन्धे सम्बन्धवर्णनम्, सम्बन्धेऽसम्बन्धवर्णनम्, कार्यकारणभावविपर्ययवर्णनम् । |
परमेश्वरः समागतः । सिंहः आगच्छति । व्याघ्रं मा कोपय |
| श्लेषः | नानार्थसंश्रयः श्लेषः | कादम्बरीरसज्ञानामाहारोऽपि न रोचते । माघे मेघे गतं वयः । |
| अभङ्गश्लेषः | अनेकार्थानां पदानामुपयोगः । | उच्चरद्भूरिकीलालः शुशुभे वाहिनीपतिः । कीलालः–रक्तं, जलम् । वाहिनी–सेना, नदी । वाहिनीपतिः–सेनापतिः, समुद्रः । |
| सभङ्गश्लेषः | सन्धिविच्छेदेन भिन्नार्थकानां भिन्नपदानां लाभः । | सर्वदो माधवः पायात् स यो गङ्गामदीधरत् । सर्वदः माधवः .. योऽगङ्गाम् (अगं + अगाम्; पर्वतं + भूमिम्) – कृष्णः रक्षतु । सर्वदा उमाधवः ... यः गङ्गाम् अदीधरत् – शिवः रक्षतु |
| अर्थान्तरन्यासः | उक्तिरर्थान्तरन्यासः स्यात् सामान्यविशेषयोः सामान्यं वा विशेषो वा तदन्येन समर्थ्यते। यत्र सोऽर्थान्तरन्यासः साधर्म्येणेेतरेण वा |
हनुमानब्धिमतरत् दुष्करं किं महात्मनाम् । भ्रष्टः स आरक्षकैर्गृहीतः । लवणं पीतवान्जलं पिबेदेव ॥ |
| काव्यलिङ्ग० | हेतोर्वाक्यपदार्थत्वे काव्यलिंगं निगद्यते | |
| समासोक्तिः | समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः । |
|
| प्रतीपम् | प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् । | |
| विषम० | विषमं वर्ण्यते यत्र घटनाननुरूपयोः । | ? तपः क्व वत्से क्व च तावकं वपुः |
| सहोक्ति | सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् | |
| उदात्त | लोकातिशयसम्पत्तिवर्णनोदात्तमुच्यते | |
| विशेषोक्तिः | विशेषोक्तिरखण्डेषु कारणेषु फलावचः । कारणेषु सत्स्वपि कार्यसिद्धिर्न भवति । [सति हेतौ फलाभावे विशेषोक्तिर्निगद्यते] |
देव्यामपि हि (उ०रा० १।६) |
| विभावना | विभावना विना हेतुं कार्योत्पत्तिर्यदुच्यते । | देव्यामपि हि (उ०रा० १।६) |
| व्यतिरेक० | आधिक्यमुपमेयस्योपमानान्यूनताऽथवा | लौकिकानां हि साधूनामर्थं वागनुवर्तते। ऋषीणां पुनराद्यानां वाचमर्थोऽनुधावति ॥उ०रा० १।१०॥ |
| स्मरणा० | सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते | तस्यास्तीरे रचित० (मेघ० २।१६) |
| दृष्टान्त० | दृष्टान्तस्तु सधर्मस्य वस्तुनः प्रतिबिम्बनम् | एभिः साधो! हृदयनिहितैः (मेघ० २।१८) |
| समः | समं स्यादानुरूपुयेण स्लाघ्या या योग्यवस्तुनः |