अतिश्योक्तिः¶
लक्षणम्
सिद्धत्वेऽध्यवसायस्यातिश्योक्तिर्निगद्यते ।
[विषयनिगरणेनाभेदप्रतिपत्तिर्विषयिणो अध्यवसायः । विषयः – उपमेयः , विषयी - उपमानम्]
विषयस्यानुपादानाद्विषय्युपनिबध्यते
(उपमेयं विना उपमानरूपेणैव वर्णनम्)
अथवा
सम्बन्धे असम्बन्धलक्षणाऽतिशयोक्तिः ।
अभेदे भेदवर्णनम्, भेदेऽभेदवर्णनम्, असम्बन्धे सम्बन्धवर्णनम्, सम्बन्धेऽसम्बन्धवर्णनम्, कार्यकारणभावविपर्ययवर्णनम् ।
उदाहरणानि
परमेश्वरः समागतः । सिंहः आगच्छति । व्याघ्रं मा कोपय