वंशस्थम्¶
अक्षराणि
१२
लक्षणम्
जतौ तु वंशस्थमुदीरितं जरौ
।ऽ। ऽऽ। ।ऽ। ऽ।ऽ
उदाहरणम्
नमामि नारायणपादपङ्कजं
करोमि नारायणपूजनं सदा ।
वदामि नारायणनाम निर्मलं
स्मरामि नारायणतत्त्वमव्ययम् ॥
श्रियः कुरूणामधिपस्य पालनीं
प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्वैतवने वनेचरः ॥
सन्दर्भाः¶
- श्रियः कुरूणामधिपस्य पालनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितु… — किरातार्जुनीयम् — प्रथमः सर्गः
- कृतप्रणामस्य महीं महीभुजे जितां सपत्नेन निवेदयिष्यतः — किरातार्जुनीयम् — प्रथमः सर्गः
- द्विषां विघाताय विधातुमिच्छतो रहस्यनुज्ञामधिगम्य भूभृतः — किरातार्जुनीयम् — प्रथमः सर्गः
- क्रियासु युक्तैर्नृप चारचक्षुषो न वञ्चनीयाः प्रभवोऽनुजीविभिः — किरातार्जुनीयम् — प्रथमः सर्गः
- स किंसखा साधु न शास्ति योऽधिपं हितान्न यः संशृणुते स किम्प्र… — किरातार्जुनीयम् — प्रथमः सर्गः
- निसर्गदुर्बोधमबोधविक्लवाः क्व भूपतीनां चरितं क्व जन्तवः — किरातार्जुनीयम् — प्रथमः सर्गः
- विशङ्कमानो भवतः पराभवं नृपासनस्थोऽपि वनाधिवासिनः — किरातार्जुनीयम् — प्रथमः सर्गः
- तथापि जिह्मः स भवज्जिगीषया तनोति शुभ्रं गुणसम्पदा यशः — किरातार्जुनीयम् — प्रथमः सर्गः
- कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना — किरातार्जुनीयम् — प्रथमः सर्गः
- सखीनिव प्रीतियुजोऽनुजीविनः समानमानान् सुहृदश्च बन्धुभिः — किरातार्जुनीयम् — प्रथमः सर्गः
- असक्तमाराधयतो यथायथं विभज्य भक्त्या समपक्षपातया — किरातार्जुनीयम् — प्रथमः सर्गः
- निरत्ययं साम न दानवर्जितं न भूरि दानं विरहय्य सत्क्रियाम् — किरातार्जुनीयम् — प्रथमः सर्गः
- वसूनि वाञ्छन्न वशी न मन्युना स्वधर्म इत्येव निवृत्तकारणः — किरातार्जुनीयम् — प्रथमः सर्गः
- विधाय रक्षान् परितः परेतरानशङ्किताकारमुपैति शङ्कितः — किरातार्जुनीयम् — प्रथमः सर्गः
- अनारतं तेन पदेषु लम्भिता विभज्य सम्यग्विनियोगसत्क्रियाः — किरातार्जुनीयम् — प्रथमः सर्गः
- अनेकराजन्यरथाश्वसङ्कुलं तदीयमास्थाननिकेतनाजिरम् — किरातार्जुनीयम् — प्रथमः सर्गः
- सुखेन लभ्या दधतः कृषीवलैरकृष्टपच्या इव सस्यसम्पदः — किरातार्जुनीयम् — प्रथमः सर्गः
- उदारकीर्तेरुदयं दयावतः प्रशान्तबाधं दिशतोऽभिरक्षया — किरातार्जुनीयम् — प्रथमः सर्गः
- महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः — किरातार्जुनीयम् — प्रथमः सर्गः
- महीभृतां सच्चरितैश्चरैः क्रियाः स वेद निःशेषमशेषितक्रियः — किरातार्जुनीयम् — प्रथमः सर्गः
- न तेन सज्यं क्वचिदुद्यतं धनुर्न वा कृतं कोपविजिह्ममाननम् — किरातार्जुनीयम् — प्रथमः सर्गः
- स यौवराज्ये नवयौवनोद्धतं निधाय दुःशासनमिद्धशासनः — किरातार्जुनीयम् — प्रथमः सर्गः
- प्रलीनभूपालमपि स्थिरायति प्रशासदावारिधि मण्डलं भुवः — किरातार्जुनीयम् — प्रथमः सर्गः
- कथाप्रसङ्गेन जनैरुदाहृतादनुस्मृताखण्डलसूनुविक्रमः — किरातार्जुनीयम् — प्रथमः सर्गः
- तदाशु कर्तुं त्वयि जिह्ममुद्यते विधीयतां तत्र विधेयमुत्तरम् — किरातार्जुनीयम् — प्रथमः सर्गः
- इतीरयित्वा गिरमात्तसत्क्रिये गतेऽथ पत्यौ वनसन्निवासिनाम् — किरातार्जुनीयम् — प्रथमः सर्गः
- निशम्य सिद्धिं द्विषतामपाकृतीस्ततस्ततस्त्या विनियन्तुमक्षमा — किरातार्जुनीयम् — प्रथमः सर्गः
- भवादृशेषु प्रमदाजनोदितं भवत्यधिक्षेप इवानुशासनम् — किरातार्जुनीयम् — प्रथमः सर्गः
- अखण्डमाखण्डलतुल्यधामभिश्चिरं धृता भूपतिभिः स्ववंशजैः — किरातार्जुनीयम् — प्रथमः सर्गः
- व्रजन्ति ते मूढधियः पराभवं भवन्ति मायाविषु ये न मायिनः — किरातार्जुनीयम् — प्रथमः सर्गः
- गुणानुरक्तामनुरक्तसाधनः कुलाभिमानी कुलजां नराधिपः — किरातार्जुनीयम् — प्रथमः सर्गः
- भवन्तमेतर्हि मनस्विगर्हिते विवर्तमानं नरदेव वर्त्मनि — किरातार्जुनीयम् — प्रथमः सर्गः
- अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः — किरातार्जुनीयम् — प्रथमः सर्गः
- परिभ्रमंल्लोहितचन्दनोचितः पदातिरन्तर्गिरि रेणुरूषितः — किरातार्जुनीयम् — प्रथमः सर्गः
- विजित्य यः प्राज्यमयच्छदुत्तरान् कुरूनकुप्यं वसु वासवोपमः — किरातार्जुनीयम् — प्रथमः सर्गः
- वनान्तशय्याकठिनीकृताकृती कचाचितौ विष्वगिवागजौ गजौ — किरातार्जुनीयम् — प्रथमः सर्गः
- इमामहं वेद न तावकीं धियं विचित्ररूपाः खलु चित्तवृत्तयः — किरातार्जुनीयम् — प्रथमः सर्गः
- पुराधिरूढः शयनं महाधनं विबोध्यसे यः स्तुतिगीतिमङ्गलैः — किरातार्जुनीयम् — प्रथमः सर्गः
- पुरोपनीतं नृप रामणीयकं द्विजातिशेषेण यदेतदन्धसा — किरातार्जुनीयम् — प्रथमः सर्गः
- अनारतं यौ मणिपीठशायिनावरञ्जयद्राजशिरःस्रजां रजः — किरातार्जुनीयम् — प्रथमः सर्गः
- द्विषन्निमित्ता यदियं दशा ततः समूलमुन्मूलयतीव मे मनः — किरातार्जुनीयम् — प्रथमः सर्गः
- विहाय शान्तिं नृप धाम तत्पुनः प्रसीद सन्धेहि वधाय विद्विषाम् — किरातार्जुनीयम् — प्रथमः सर्गः
- पुरःसरा धामवतां यशोधनाः सुदुःसहं प्राप्य निकारमीदृशम् — किरातार्जुनीयम् — प्रथमः सर्गः
- अथ क्षमामेव निरस्तविक्रमश्चिराय पर्येषि सुखस्य साधनम् — किरातार्जुनीयम् — प्रथमः सर्गः
- न समयपरिरक्षणं क्षमं ते निकृतिपरेषु परेषु भूरिधाम्नः — किरातार्जुनीयम् — प्रथमः सर्गः
- अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः — कुमारसम्भवम् — पञ्चमः सर्गः
- तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती — कुमारसम्भवम् — पञ्चमः सर्गः
- इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः — कुमारसम्भवम् — पञ्चमः सर्गः
- निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् — कुमारसम्भवम् — पञ्चमः सर्गः
- मनीषिताः सन्ति गृहेषु देवतास्तपः क्व वत्से क्व च तावकं वपुः — कुमारसम्भवम् — पञ्चमः सर्गः
- इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् — कुमारसम्भवम् — पञ्चमः सर्गः
- कदाचिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी — कुमारसम्भवम् — पञ्चमः सर्गः
- अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा — कुमारसम्भवम् — पञ्चमः सर्गः
- विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् — कुमारसम्भवम् — पञ्चमः सर्गः
- यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् — कुमारसम्भवम् — पञ्चमः सर्गः
- प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार… — कुमारसम्भवम् — पञ्चमः सर्गः
- विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् — कुमारसम्भवम् — पञ्चमः सर्गः
- महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते — कुमारसम्भवम् — पञ्चमः सर्गः
- पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितं द्वयम… — कुमारसम्भवम् — पञ्चमः सर्गः
- अतन्द्रिता सा स्वयमेव वृक्षकान् घटस्तनप्रस्रवणैर्व्यवर्धयत् — कुमारसम्भवम् — पञ्चमः सर्गः
- अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः — कुमारसम्भवम् — पञ्चमः सर्गः
- कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् — कुमारसम्भवम् — पञ्चमः सर्गः
- विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि — कुमारसम्भवम् — पञ्चमः सर्गः
- यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काक्ष्ङितम् — कुमारसम्भवम् — पञ्चमः सर्गः
- क्लमं ययौ कन्दुकलीलयाऽपि या तया मुनीनां चरितं व्यगाह्यत — कुमारसम्भवम् — पञ्चमः सर्गः
- शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा — कुमारसम्भवम् — पञ्चमः सर्गः
- तथातितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ — कुमारसम्भवम् — पञ्चमः सर्गः
- अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः — कुमारसम्भवम् — पञ्चमः सर्गः
- निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसम्भृतेन सा — कुमारसम्भवम् — पञ्चमः सर्गः
- स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः — कुमारसम्भवम् — पञ्चमः सर्गः
- शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु — कुमारसम्भवम् — पञ्चमः सर्गः
- निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा — कुमारसम्भवम् — पञ्चमः सर्गः
- मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना — कुमारसम्भवम् — पञ्चमः सर्गः
- स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः — कुमारसम्भवम् — पञ्चमः सर्गः
- मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् — कुमारसम्भवम् — पञ्चमः सर्गः
- अथाजिनापाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा — कुमारसम्भवम् — पञ्चमः सर्गः
- तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती — कुमारसम्भवम् — पञ्चमः सर्गः
- विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षण… — कुमारसम्भवम् — पञ्चमः सर्गः
- अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते — कुमारसम्भवम् — पञ्चमः सर्गः
- अपि त्वदावर्जितवारिसम्भृतं प्रवालमासामनुबन्धि वीरुधाम् — कुमारसम्भवम् — पञ्चमः सर्गः
- अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु — कुमारसम्भवम् — पञ्चमः सर्गः
- यदुच्यते पार्वति ! पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः — कुमारसम्भवम् — पञ्चमः सर्गः
- विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्चयुतै… — कुमारसम्भवम् — पञ्चमः सर्गः
- अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि — कुमारसम्भवम् — पञ्चमः सर्गः
- प्रयुक्तसत्कारविशेषमात्मना न मां परं सम्प्रतिपत्तुमर्हसि — कुमारसम्भवम् — पञ्चमः सर्गः
- अतोत्र किंचिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः — कुमारसम्भवम् — पञ्चमः सर्गः
- कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः — कुमारसम्भवम् — पञ्चमः सर्गः
- भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी — कुमारसम्भवम् — पञ्चमः सर्गः
- अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे — कुमारसम्भवम् — पञ्चमः सर्गः
- किमित्यपास्याभरणानि यौवने धृतं त्वया वार्धकशोभि वल्कलम् — कुमारसम्भवम् — पञ्चमः सर्गः
- दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः — कुमारसम्भवम् — पञ्चमः सर्गः
- निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते — कुमारसम्भवम् — पञ्चमः सर्गः
- अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते — कुमारसम्भवम् — पञ्चमः सर्गः
- मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् — कुमारसम्भवम् — पञ्चमः सर्गः
- अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः — कुमारसम्भवम् — पञ्चमः सर्गः
- कियच्चिरं श्राम्यसि गौरि ! विद्यते ममापि पूर्वाश्रमसञ्चितं त… — कुमारसम्भवम् — पञ्चमः सर्गः
- इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् — कुमारसम्भवम् — पञ्चमः सर्गः
- सखी तदीया तमुवाच वर्णिनं निबोध साधो! तव चेत्कुतूहलम् — कुमारसम्भवम् — पञ्चमः सर्गः
- इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी — कुमारसम्भवम् — पञ्चमः सर्गः
- असह्यहुङ्कारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः — कुमारसम्भवम् — पञ्चमः सर्गः
- तदा प्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका — कुमारसम्भवम् — पञ्चमः सर्गः
- उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् — कुमारसम्भवम् — पञ्चमः सर्गः
- त्रिभागशेषासु निशासु च क्षणं निमील्य नेत्रे सहसा व्यबुध्यत — कुमारसम्भवम् — पञ्चमः सर्गः
- यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं कथं जनम् — कुमारसम्भवम् — पञ्चमः सर्गः
- यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती — कुमारसम्भवम् — पञ्चमः सर्गः
- द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि — कुमारसम्भवम् — पञ्चमः सर्गः
- न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम् — कुमारसम्भवम् — पञ्चमः सर्गः
- अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया — कुमारसम्भवम् — पञ्चमः सर्गः
- अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् — कुमारसम्भवम् — पञ्चमः सर्गः
- यथा श्रुतं वेदविदां वर ! त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः — कुमारसम्भवम् — पञ्चमः सर्गः
- अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे — कुमारसम्भवम् — पञ्चमः सर्गः
- अवस्तुनिर्बन्धपरे ! कथं नु ते करोऽयमामुक्तविवाहकौतुकः — कुमारसम्भवम् — पञ्चमः सर्गः
- त्वमेव तावत्परिचिन्तय स्वयं कदाचिदेते यदि योगमर्हतः — कुमारसम्भवम् — पञ्चमः सर्गः
- चतुष्कपुष्पप्रकरावकीर्णयोः परोऽपि को नाम तवानुमन्यते — कुमारसम्भवम् — पञ्चमः सर्गः
- अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् — कुमारसम्भवम् — पञ्चमः सर्गः
- इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया — कुमारसम्भवम् — पञ्चमः सर्गः
- द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया पिनाकिनः — कुमारसम्भवम् — पञ्चमः सर्गः
- वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु — कुमारसम्भवम् — पञ्चमः सर्गः
- निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्ष… — कुमारसम्भवम् — पञ्चमः सर्गः
- इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया — कुमारसम्भवम् — पञ्चमः सर्गः
- उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् — कुमारसम्भवम् — पञ्चमः सर्गः
- विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा — कुमारसम्भवम् — पञ्चमः सर्गः
- अकिञ्चनः सन्प्रभवः स संपदां त्रिलोकनाथः पितृसद्मगोचरः — कुमारसम्भवम् — पञ्चमः सर्गः
- विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा — कुमारसम्भवम् — पञ्चमः सर्गः
- तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये — कुमारसम्भवम् — पञ्चमः सर्गः
- असम्पदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा — कुमारसम्भवम् — पञ्चमः सर्गः
- विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् — कुमारसम्भवम् — पञ्चमः सर्गः
- अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः — कुमारसम्भवम् — पञ्चमः सर्गः
- निवार्यतामालि! किमप्ययं वटुः पुनर्विवक्षुः स्फुरितोत्तराधरः — कुमारसम्भवम् — पञ्चमः सर्गः
- इतो गमिष्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला — कुमारसम्भवम् — पञ्चमः सर्गः