वसन्ततिलका¶
अक्षराणि
१४
लक्षणम्
उक्ता वसन्ततिलका तभजा जगौ गः
ऽऽ। ऽ।। ।ऽ। ।ऽ। ऽऽ
उदाहरणम्
मज्जन्मनः फलमिदं मधुकैटभारे
मत्प्रार्थनीयमदनुग्रह एष एव ।
त्वद्भृत्य-भृत्य-परिचारक-भृत्य-भृत्य-
भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहिता विरमन्ति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमजनाः न परित्यज्यन्ति ॥
सन्दर्भाः¶
- तं वीक्ष्य वेपथुमती सरसाङ्गयष्टि- र्निक्षेपणाय पदमुद्धृतमुद्… — कुमारसम्भवम् — पञ्चमः सर्गः
- अद्यप्रभृत्यवनताङ्गि! तवास्मि दासः क्रीतस्तपोभिरिति वादिनि च… — कुमारसम्भवम् — पञ्चमः सर्गः