Skip to content

मालिनी

अक्षराणि

१५

लक्षणम्

ननमयययुतेयं मालिनी भोगिलोकैः (भोगिनः ८, लोकाः ७)
।।। ।।। ऽऽऽ ।ऽऽ ।ऽऽ

उदाहरणम्

जयतु जयतु देवो देवकीनन्दनोऽयम्
जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः ।
जयतु जयतु मेघश्यामलः कोमलाङ्गो
जयतु जयतु पृथ्वीभारनाशो मुकुन्दः ॥

वटविटपिसमीपे भूमिभागे निषण्णं
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं
जननमरणदुःखच्छेददक्षं नमामि ॥

सरसिजमनुविद्धं शैवलेनापि रम्यम्।
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम्

सन्दर्भाः