Skip to content

शिखरिणी

अक्षराणि

१७

लक्षणम्

रसै रुद्रैश्छिन्ना यमनसभला गः शिखरिणी (रसाः ६, रुद्राः ११)
।।ऽ ऽऽऽ ।।। ।।ऽ ऽ।। ।ऽ

उदाहरणम्

शिवः शक्त्याः युक्तो यदि भवति शक्तः प्रभवितुं
न चेद् एवं देवो न खलु कुशलः स्पन्दितुमपि ।
अतस्त्वामाराध्यां हरिहरविरिञ्चादिभिरपि
प्रणन्तुं स्तोतुं वा कथमकृतपुण्यः प्रभवति ॥

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः।