मन्दाक्रान्ता¶
अक्षराणि
१७
लक्षणम्
मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू चेत् (जलधयः ४, षट् ६, अगाः ७)
ऽऽऽ ऽ।। ।।। ऽऽ। ऽऽ। ऽऽ
उदाहरणम्
कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः
शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥