Skip to content

पृथ्वी

अक्षराणि

१७

लक्षणम्

जसौ जसयला वसु-ग्रहयतिः पृथ्वी गुरुः। (वसवः ८, ग्रहाः ९)
ज-स-ज-स-य-ल-ग (।ऽ। ।।ऽ ।ऽ। ।।ऽ ।ऽऽ ।ऽ)

उदाहरणम्

स्मृताऽपि तरुणातपं करुणया हरन्ती नृणाम्
अभङ्गुरतनुत्विषां वलयिता शतैर्विद्युताम्।
कलिन्दगिरिनन्दिनीतटसुरद्रुमालम्बिनी
मदीयमतिचुम्बिनी भवतु काऽपि कादम्बिनी॥