स्रग्धरा¶
अक्षराणि
२१
लक्षणम्
म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् (त्रि-मुनयः ७+७+७)
म-र-भ-न-य-य-य
ऽऽऽ ऽ।ऽ ऽ॥ ॥। ।ऽऽ ।ऽऽ ।ऽऽ
उदाहरणम्
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥१॥